(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.19. अध्यायः 019
Mahabharata - Bhishma Parva - Chapter Topics
युद्धाय पाण्डवसेनानिर्याणम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-19-0x(3994)(39321)
अर्क्षांहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः।
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ 6-19-1(39322)
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
कथं भीष्मं स कौन्तेयः प्रत्ययूहत सञ्जय ॥ 6-19-2(39323)
सञ्जय उवाच। 6-19-3x(3995)
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः।
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ॥ 6-19-3(39324)
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः ।
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥ 6-19-4(39325)
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह।
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ 6-19-5(39326)
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव ।
एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः॥ 6-19-6(39327)
एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्।
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ 6-19-7(39328)
यः स वात इवोद्भूतः समरे दुःसहः परैः।
स नः पुरो योत्सयते वै भीमः प्रहरतां वरः ॥ 6-19-8(39329)
तेजांसि रिपुसैन्यानां मृद्गन्पुरुषसत्तमः।
अग्नेऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः ॥ 6-19-9(39330)
यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः।
निवर्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा ॥ 6-19-10(39331)
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः ।
भीमं प्रहरतां श्रेष्ठं देवाराजमिवामराः ॥ 6-19-11(39332)
न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्।
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ 6-19-12(39333)
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् ।
चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ 6-19-13(39334)
भीमसेनं तदा राजन्दर्शयस्व महाबलम् ।
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ॥ 6-19-14(39335)
एते गच्छन्तु सामात्याः प्रकर्षन्तो जनाधिप ।
धृतराष्ट्रस्य दायादानिति बीभत्सुरब्रवीत् ॥ 6-19-15(39336)
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत ।
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ 6-19-16(39337)
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः।
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा ॥ 6-19-17(39338)
संप्रयातान्कुरून्दृष्ट्वा पाण्डंवानां महाचमूः।
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत ॥ 6-19-18(39339)
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान् ।
नकुलः सहदेवश्च धृष्टकेतुश्च पार्थिवः ॥ 6-19-19(39340)
विराटश्च ततः पश्चाद्राजाथाक्षौहिणीवृतः ।
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ 6-19-20(39341)
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती।
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥ 6-19-21(39342)
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः ।
सहितः पृतनाशूरैः रथमुख्यैः प्रभद्रकैः ॥ 6-19-22(39343)
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः।
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ 6-19-23(39344)
पृष्ठतोऽप्यर्जुनस्यासीद्युयुधानो महाबलः ।
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ ॥ 6-19-24(39345)
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः ।
बृहद्भीः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ 6-19-25(39346)
अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः ।
विराटमन्वयात्पश्चात्पाण्डवार्थं पराक्रमी ॥ 6-19-27aतेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः ।
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ 6-19-26(39347)
समुत्सार्य ततः पश्चाद्धृष्टद्युम्नो महारथः ।
भ्रातृभिः सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ 6-19-28(39348)
त्वदीयानां परेषां च रथेषु विपुलान्ध्वजान्।
अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः ॥ 6-19-29(39349)
पदातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः।
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ 6-19-30(39350)
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः ।
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ 6-19-31(39351)
क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः।
राजानमन्वयुः यश्चाज्जीमूता इव वार्षिकाः ॥ 6-19-32(39352)
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्।
प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥ 6-19-33(39353)
तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम् ।
न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके ॥ 6-19-34(39354)
वज्रो नामैष स व्यूहो निर्भयः सर्वतोमुखः।
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ 6-19-35(39355)
यं प्रतिव्यूहय् तिष्ठन्ति पाण्डवास्तव वाहिनीम् ।
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ 6-19-36(39356)
संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति।
प्रववौ पृष्ठतो वायुर्निरभ्रे स्तनयित्नुमान् ॥ 6-19-37(39357)
विष्वग्वाताश्च विववुर्नीचैः शर्करकर्षिणः ।
रजश्चोद्धूयत महत्तम आच्छादयञ्जगत् ॥ 6-19-38(39358)
पपात महती चोल्का प्राङ्भुखी भरतर्षभ ।
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥ 6-19-39(39359)
अथ संनह्यमानेषु सैन्येषु भरतर्षभ ।
निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च ॥ 6-19-40(39360)
व्यशीर्यत सनादा च भूस्तदा भरतर्षभ ।
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् ।
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन ॥ 6-19-41(39361)
ध्वजानां धूयमानानां सहसा मातरिश्वना ।
किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः ॥ 6-19-42(39362)
महतां सपताकानामादित्यसमतेजसाम् ।
सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ 6-19-43(39363)
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ।
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ 6-19-44(39364)
ग्रसन्त इव मञ्जानो योधानां भरतर्षभ ।
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ ॥ 6-19-45(39365)

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनविंशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-19-4 संहतानिति। अल्पैः संहत्यैव योद्धव्यम्। बहुभिस्तु विशकलितैरपि योद्धुं शक्यमित्यर्थः ॥ 6-19-6 व्यूह व्यूहं कुरु ॥ 6-19-18 स्पन्दमाना किंचिञ्चलन्ती ॥ 6-19-31 वारणा राजनमन्वयुरिति संबन्धः । अचलाः निष्कम्भाः ॥ 6-19-32 जीमूतः पर्वताः ॥ 6-19-39 आहत्य आस्फाल्य ॥ 6-19-45 मज्जान इति। नोऽस्माकं योधामञ्नाः धातुविशेषान् ग्रसन्त इवेति योज्यम्। भीमसेनं दृष्ट्वा वस्थिता इति संबन्धः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.